Atharva Veda
Kaanda 6, Sukta 91, Verse 1
यक्ष्मनाशनम् ।
इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः ।
तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
यक्ष्मनाशनम् ।
इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः ।
तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये
न्य॑१ग्वातो॑ वाति॒ न्यऽक् तपति॑ सूर्यः॑ ।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्यऽग् भवतु ते॒ रपः॑
आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आपो॑ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम्