Atharva Veda
Kaanda 6, Sukta 90, Verse 1
इषुनिष्कासनम् ।
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च ।
इ॒दं ताम॒द्य त्वद् व॒यं विषू॑चीं॒ वि वृ॑हामसि
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
इषुनिष्कासनम् ।
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च ।
इ॒दं ताम॒द्य त्वद् व॒यं विषू॑चीं॒ वि वृ॑हामसि
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः ।
तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै ।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै