Atharva Veda
Kaanda 6, Sukta 89, Verse 1
प्रीतिसंजननम् ।
इ॒दं यत् प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म् ।
ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रीतिसंजननम् ।
इ॒दं यत् प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म् ।
ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि
शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑ ।
वातं॑ धू॒म इ॑व स॒ध्र्य॑१ङ्मामे॒वान्वे॑तु ते॒ मनः॑
मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती ।
मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम्