Atharva Veda
Kaanda 6, Sukta 79, Verse 1
ऊर्जःप्राप्तिः ।
अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्फानो॑ अ॒भि र॑क्षतु ।
अस॑मातिं गृहेषु॑ नः
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऊर्जःप्राप्तिः ।
अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्फानो॑ अ॒भि र॑क्षतु ।
अस॑मातिं गृहेषु॑ नः
त्वं नो॑ नभसस्पत ऊर्जं॑ गृ॒हेषु॑ धारय ।
आ पु॒ष्टमेत्वा वसु॑
देव॑ संस्फान सहस्रापो॒षस्ये॑शिषे ।
तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांसः॑ स्याम