Atharva Veda
Kaanda 6, Sukta 77, Verse 1
प्रतिष्ठापनम् ।
अस्था॒द् द्यौरस्था॑त् पृथि॒व्यस्था॒द् विश्व॑मि॒दं जग॑त् ।
आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वां॑ अतिष्ठिपम्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रतिष्ठापनम् ।
अस्था॒द् द्यौरस्था॑त् पृथि॒व्यस्था॒द् विश्व॑मि॒दं जग॑त् ।
आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वां॑ अतिष्ठिपम्
य उ॒दान॑ट् प॒राय॑णं॒ य उ॒दान॒ण् न्याय॑नम् ।
आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे
जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वतः॑ ।
स॒हस्रं॑ त उपा॒वृत॒स्तभि॑र्नः॒ पुन॒रा कृ॑धि