Atharva Veda
Kaanda 6, Sukta 74, Verse 1
सांमनस्यम् ।
सं वः॑ पृच्यन्तां त॒न्वः॑१ सं मनां॑सि॒ समु॑ व्र॒ता ।
सं वोऽयं ब्रह्म॑ण॒स्पति॒र्भगः॑ सं वो॑ अजीगमत्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
सांमनस्यम् ।
सं वः॑ पृच्यन्तां त॒न्वः॑१ सं मनां॑सि॒ समु॑ व्र॒ता ।
सं वोऽयं ब्रह्म॑ण॒स्पति॒र्भगः॑ सं वो॑ अजीगमत्
सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ सं॒ज्ञप॑नं हृ॒दः ।
अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः
यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः ।
एवा त्रि॑णाम॒न्नहृ॑णीयमान इ॒मान् जना॒न्त्संम॑नसस्कृधी॒ह