Atharva Veda
Kaanda 6, Sukta 69, Verse 1
वर्चःप्राप्तिः ।
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद् यशः॑ ।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्चःप्राप्तिः ।
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद् यशः॑ ।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती ।
यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॑ अनु॑
मयि॒ वर्चो॒ अथो॒ यशोऽथो॑ य॒ज्ञस्य॒ यत् पयः॑ ।
तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु