Atharva Veda
Kaanda 6, Sukta 67, Verse 1
शत्रुनाशनम् ।
परि॒ व॑र्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः ।
मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां परस्त॒राम्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनाशनम् ।
परि॒ व॑र्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः ।
मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां परस्त॒राम्
मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाहयः॑ ।
तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्
ऐषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्या॒ भियं॑ कृधि ।
परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु