Atharva Veda
Kaanda 6, Sukta 57, Verse 1
जलचिकित्सा ।
इ॒दमिद् वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम् ।
येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
जलचिकित्सा ।
इ॒दमिद् वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम् ।
येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त्
जा॒ला॒षेणा॒भि षि॑ञ्चत जालाषेणोप॑ सिञ्चत ।
जा॒ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑
शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत् ।
क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम्