Atharva Veda
Kaanda 6, Sukta 56, Verse 1
सर्पेभ्यो रक्षणम् ।
मा नो॑ देवा॒ अहि॑र्वधी॒त् सतो॑कान्त्स॒हपु॑रुषान् ।
सम्य॑तं॒ न वि ष्प॑रद् व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्पेभ्यो रक्षणम् ।
मा नो॑ देवा॒ अहि॑र्वधी॒त् सतो॑कान्त्स॒हपु॑रुषान् ।
सम्य॑तं॒ न वि ष्प॑रद् व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑
नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये ।
स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑
सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑ ।
सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यऽम्