Atharva Veda
Kaanda 6, Sukta 52, Verse 1
भैषज्यम् ।
उत् सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न् ।
आ॒दि॒त्यः पर्वतेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
भैषज्यम् ।
उत् सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न् ।
आ॒दि॒त्यः पर्वतेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा
नि गावो॑ गो॒ष्ठे अ॑सद॒न् नि मृ॒गासो॑ अविक्षत ।
न्यू॒३र्मयो॑ न॒दीनं॒ न्य॑१दृष्टा॑ अलिप्सत
आ॒यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म् ।
आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न् नि श॑मयत्