Atharva Veda
Kaanda 6, Sukta 48, Verse 1
स्वस्तिवाचनम् ।
श्ये॒नोऽसि गाय॒त्रच्छन्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वस्तिवाचनम् ।
श्ये॒नोऽसि गाय॒त्रच्छन्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑
ऋ॒भुर॑सि॒ जग॑च्छन्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑
वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे ।