Atharva Veda
Kaanda 6, Sukta 47, Verse 1
दीर्घायुः प्राप्तिः ।
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान् वै॑श्वान॒रो वि॑श्व॒कृद् वि॒श्वशं॑भूः ।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः सहभ॑क्षाः स्याम
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
दीर्घायुः प्राप्तिः ।
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान् वै॑श्वान॒रो वि॑श्व॒कृद् वि॒श्वशं॑भूः ।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः सहभ॑क्षाः स्याम
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः ।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त ।
ते सौ॑धन्व॒नाः स्वऽरानशा॒नाः स्विऽष्टिं नो अ॒भि वस्यो॑ नयन्तु