Atharva Veda
Kaanda 6, Sukta 45, Verse 1
दुःष्वप्ननाशनम् ।
प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि ।
परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॑ गोषु॑ मे॒ मनः॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
दुःष्वप्ननाशनम् ।
प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि ।
परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॑ गोषु॑ मे॒ मनः॑
अ॒व॒शसा॑ निः॒शसा॒ यत् प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत् स्व॒पन्तः॑ ।
अ॒ग्निर्वि॑श्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद् द॑धातु
यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि ।
प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात् पा॒त्वंह॑सः