Atharva Veda
Kaanda 6, Sukta 32, Verse 1
यातुधानक्षयणम् ।
अ॒न्त॒र्दा॒वे जु॑हुता॒ स्वे॒३तद् या॑तुधान॒क्षय॑णं घृ॒तेन॑ ।
आ॒राद् रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
यातुधानक्षयणम् ।
अ॒न्त॒र्दा॒वे जु॑हुता॒ स्वे॒३तद् या॑तुधान॒क्षय॑णं घृ॒तेन॑ ।
आ॒राद् रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि
रु॒द्रो वो॑ ग्री॒वा अश॑रैत् पिशाचाः पृ॒ष्टीर्वोऽपि॑ शृणातु यातुधानाः ।
वी॒रुद् वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत्
अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ ।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम्
<