Atharva Veda
Kaanda 6, Sukta 24, Verse 1
अपां भैषज्यम् ।
हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः ।
आपो॑ ह मह्यं॒ तद् दे॒वीर्दद॑न् हृद्द्योतभेष॒जम्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपां भैषज्यम् ।
हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः ।
आपो॑ ह मह्यं॒ तद् दे॒वीर्दद॑न् हृद्द्योतभेष॒जम्
यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत् ।
आप॒स्तत् सर्वं॒ निष्क॑रन् भि॒षजां॒ सुभि॑षक्तमाः
सिन्धु॑पत्नीः॒ सिन्धु॑राज्ञीः॒ सर्वा॒ या न॒द्य॑१स्थन॑ ।
द॒त्त न॒स्तस्य॑ भेष॒जं तेना॑ वो भुनजामहै