Atharva Veda
Kaanda 6, Sukta 23, Verse 1
अपां भैषज्यम् ।
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ ।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपां भैषज्यम् ।
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ ।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये
ओता॒ आपः॑ कर्म॒ण्याऽमु॒ञ्चन्त्वि॒तः प्रणी॑तये ।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे
दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः ।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः