Atharva Veda
Kaanda 6, Sukta 18, Verse 1
ईर्ष्याविनाशनम् ।
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम् ।
अ॒ग्निं हृ॑द॒य्यं॑१ शोकं॒ तं ते॒ निर्वा॑पयामसि
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
ईर्ष्याविनाशनम् ।
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम् ।
अ॒ग्निं हृ॑द॒य्यं॑१ शोकं॒ तं ते॒ निर्वा॑पयामसि
यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा ।
यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑
अ॒दो यत् ते हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम् ।
तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव