Atharva Veda
Kaanda 6, Sukta 15, Verse 1
शत्रुनिवारणम् ।
उ॒त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑ ।
उ॒प॒स्तिर॑स्तु सो॒३स्माकं॒ यो अ॒स्मां अ॑भि॒दास॑ति
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनिवारणम् ।
उ॒त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑ ।
उ॒प॒स्तिर॑स्तु सो॒३स्माकं॒ यो अ॒स्मां अ॑भि॒दास॑ति
सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्मां अ॑भि॒दास॑ति ।
तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः
यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः ।
त॒लाशा॑ वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः