Atharva Veda
Kaanda 6, Sukta 12, Verse 1
सर्प-विष-निवारणम् ।
परि॒ द्यामि॑व॒ सूर्योऽही॑नां॒ जनि॑मागमम् ।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात् तेना॑ ते वारये वि॒षम्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्प-विष-निवारणम् ।
परि॒ द्यामि॑व॒ सूर्योऽही॑नां॒ जनि॑मागमम् ।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात् तेना॑ ते वारये वि॒षम्
यद् ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद् दे॒वैर्वि॑दि॒तं पु॒रा ।
यद् भू॒तं भव्य॑मास॒न्वत् तेना॑ ते वारये वि॒षम्
मध्वा॑ पृञ्चे न॒द्यः॑१ पर्व॑ता गि॒रयो॒ मधु॑ ।
मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे