Atharva Veda
Kaanda 6, Sukta 11, Verse 1
पुंसवनम् ।
श॒मीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सु॑व॑नं कृ॒तम् ।
तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् स्त्री॒ष्वा भ॑रामसि
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुंसवनम् ।
श॒मीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सु॑व॑नं कृ॒तम् ।
तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् स्त्री॒ष्वा भ॑रामसि
पुं॒सि वै रेतो॑ भवति॒ तत् स्त्रि॒यामनु॑ षिच्यते ।
तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् प्र॒जाप॑तिरब्रवीत्
प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्यऽचीक्लृपत् ।
स्त्रषू॑यम॒न्यत्र॒ दध॒त् पुंमां॑समु दधदि॒ह