Atharva Veda
Kaanda 6, Sukta 5, Verse 1
वर्चः प्राप्तिः
उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत ।
समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्चः प्राप्तिः
उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत ।
समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि
इन्द्रे॒मं प्र॑त॒रं कृ॑धि सजा॒ताना॑मसद् व॒शी ।
रा॒यस्पोषे॑ण॒ सं सृ॑ज जी॒वात॑वे ज॒रसे॑ नय
यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् ।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑