Atharva Veda
Kaanda 6, Sukta 3, Verse 1
आत्मगोपनम् ।
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः॒ पान्तु॑ म॒रुतः॑ ।
अपां॑ नपात् सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
आत्मगोपनम् ।
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः॒ पान्तु॑ म॒रुतः॑ ।
अपां॑ नपात् सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः ।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑
पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम् ।
अपां॑ नपा॒दभिह्रुती॒ गय॑स्य चि॒द देव॑ त्वष्टर्व॒र्ध॑य॑ स॒र्वता॑तये ॥