Kaanda 5, Sukta 26, Verse 1
नवशालायां घृतहोमः ।
यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
नवशालायां घृतहोमः ।
यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु
यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन् य॒ज्ञे म॑हि॒षः स्वाहा॑
इन्द्र॑ उक्थाम॒दान्य॒स्मिन् य॒ज्ञे प्र॑वि॒द्वान् यु॑नक्तु सु॒युजः॒ स्वाहा॑
प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः
छन्दां॑सि य॒ज्ञे म॑रुतः॒ स्वाहा॑ मा॒तेव॑ पु॒त्रं पि॑पृते॒ह यु॒क्ताः
एयम॑गन् ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑
विष्णु॑र्युनक्तु बहु॒धा तपां॑स्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑
त्वष्टा॑ युनक्तु बहु॒धा नु रू॒पा अ॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑
भगो॑ युनक्त्वा॒शिषो॒ न्व॑१स्मा अ॒स्मिन् य॒ज्ञे प्र॑वि॒द्वान् यु॑नक्तु सु॒युजः॒ स्वाहा॑
सोमो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑
इन्द्रो॑ युनक्तु बहु॒धा वी॒ऽर्याण्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑
अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑तौ ।
बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्वऽरि॒दं यज॑मानाय॒ स्वाहा॑