Kaanda 5, Sukta 25, Verse 1
पर्व॑ताद् दि॒वो योने॒रङ्गा॑दङ्गात् स॒माभृ॑तम् ।
शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत्
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
पर्व॑ताद् दि॒वो योने॒रङ्गा॑दङ्गात् स॒माभृ॑तम् ।
शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत्
यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे ।
ए॒वा द॑धामि ते॒ गर्भं॒ तस्मै॒ त्वामव॑से हुवे
गर्भं॑ धेहि सिनीवालि॒ गर्भं॒ धेहि सरस्वति ।
गर्भं॑ ते अ॒श्विनो॒भा ध॑त्तां॒ पुष्क॑रस्रजा
गर्भं॑ ते मि॒त्रावरु॑णौ॒ गर्भं॑ दे॒वो बृह॒स्पतिः॑ ।
गर्भं॑ त॒ इन्द्र॑श्चा॒ग्निश्च॒ गर्भं॑ धा॒ता द॑धातु ते
विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु ।
आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते
यद् वेद॒ राजा॒ वरु॑णो॒ यद् वा॑ दे॒वी सर॑स्वती ।
यदिन्द्रो॑ वृत्र॒हा वेद॒ तद् ग॑र्भ॒कर॑णं पिब
गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् ।
गर्भो॒ विश्व॑स्य भू॒तस्य॒ सो अ॑ग्ने॒ गर्भ॒मेह धाः॑
अधि॑ स्कन्द वी॒रय॑स्व॒ गर्भ॒मा धे॑हि॒ योन्या॑म् ।
वृषा॑सि वृष्ण्यावन् प्र॒जायै॒ त्वा न॑यामसि
वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम् ।
अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म्
धातः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः ।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे
त्वष्टः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः ।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे
सवि॑तः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः ।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे
प्रजा॑पते॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः ।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे