Atharva Veda

Kaanda 5, Sukta 24

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Atharva Veda

Kaanda 5, Sukta 24, Verse 1

ब्रह्मकर्म

स॒वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 2

अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 3

द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पत्नि ते मा॑वताम् ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यृं पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 4

वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्र॑ह्मण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 5

मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम् ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 6

म॒रुतः॒ पर्व॑ता॒नामधि॑पतय॒स्ते मा॑वन्तु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 7

सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 8

वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्या॑

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 9

सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 10

च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 11

इन्द्रो॑ दि॒वोऽधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्या॒माशिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 12

म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 13

मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 14

य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 15

पि॒तरः॒ परे॒ ते मा॑वन्तु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां

चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 16

त॒ता अव॑रे॒ ते मा॑वन्तु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒स्ठाया॑म॒स्यां

चित्त्या॑मस्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑

Atharva Veda

Kaanda 5, Sukta 24, Verse 17

तत॑स्तताम॒हास्ते मा॑वन्तु ।

अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑तिष्ठाया॑मस्यां