Kaanda 5, Sukta 18, Verse 1
ब्रह्मरावी
नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे ।
मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मरावी
नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे ।
मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम्
अ॒क्षद्रु॑ग्धो राज॒न्यः पा॒प आ॑त्मपराजि॒तः ।
स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॑वानि॒ माश्वः
आवि॑ष्टिता॒घवि॑षा पृदा॒कूरि॑व॒ चर्म॑णा ।
सा ब्रा॑ह्म॒णस्य॑ राजन्य तृ॒ष्टैषा गौर॑ना॒द्या
निर्वै क्ष॒त्रं नय॑ति॒ हन्ति॒ वर्चो॒ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म् ।
यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑
य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात् ।
सं तस्येन्द्रो॒ हृद॑ये॒ऽग्निमि॑न्धे उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम्
न ब्रा॑ह्म॒णो हिं॑सित॒व्यो॒३ऽग्निः प्रि॒यत॑नोरिव ।
सोमो॒ ह्यऽस्य दाया॒द इन्द्रो॑ अस्याभिशस्ति॒पाः
श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑म् ।
अन्नं॒ यो ब्र॒ह्मणां॑ म॒ल्वः स्वा॒द्व॑१द्मीति॒ मन्य॑ते
जिह्वा॒ ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः ।
ते भि॑र्ब्रह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः
ती॒क्ष्णेष॑वो ब्राह्म॒णा हे॑ति॒मन्तो॒ यामस्य॑न्ति शर॒व्यां॒३ न सा मृषा॑ ।
अ॒नु॒हाय॒ तप॑सा म॒न्युना॑ चो॒त दू॒रादव॑ भिन्दन्त्येनम्
ये स॒हस्र॒मरा॑ज॒न्नासन् दशश॒ता उ॒त ।
ते ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा वै॑तह॒व्याः परा॑भवन्
गौरे॒व तान् ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत् ।
ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन्
एक॑शतं॒ ता ज॒नता॒ या भूमि॒र्व्यऽधूनुत ।
प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन्
दे॒व॒पी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान् ।
यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम्
अ॒ग्निर्वै नः॑ पदवा॒यः सोमो॑ दाया॒द उ॑च्यते ।
ह॒न्ताभिश॒स्तेन्द्र॒स्तथा॒ तद् वे॒धसो॑ विदुः
इषु॑रिव दि॒ग्धा नृ॑पते पृदा॒कूरि॑व गोपते ।
सा ब्रा॑ह्म॒णस्येषु॑र्घो॒रा तया॑ विध्यति॒ पीय॑तः