Atharva Veda
Kaanda 5, Sukta 16, Verse 1
वृषरोगशमनम् ।
यद्ये॑कवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
वृषरोगशमनम् ।
यद्ये॑कवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ द्विवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ त्रिवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ पञ्चवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ षड्-वृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ सप्तवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यद्य॑ष्टवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ नववृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि
यद्ये॑काद॒शोऽसि॒ सोऽपो॑दको ऽसि