Kaanda 5, Sukta 14, Verse 1
कृत्यापरिहरणम् ।
सु॒प॒र्णस्त्वान्व॑विन्दत् सूक॒रस्त्वा॑खन्न॒सा ।
दिप्सौ॑षधे॒ त्वं दिप्स॑न्त॒मव॑ कृत्या॒कृतं॑ जहि
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृत्यापरिहरणम् ।
सु॒प॒र्णस्त्वान्व॑विन्दत् सूक॒रस्त्वा॑खन्न॒सा ।
दिप्सौ॑षधे॒ त्वं दिप्स॑न्त॒मव॑ कृत्या॒कृतं॑ जहि
अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि ।
अथो॒ योअ॒स्मान् दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे
रिश्य॑स्येव परीशा॒सं प॑रि॒कृत्य॒ परि॑ त्व॒चः ।
कृ॒त्यां कृ॑त्या॒कृते॑ देवा नि॒ष्कमि॑व॒ प्रति॑ मुञ्चत
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय ।
स॒म॒क्षम॑स्मा॒ आ धे॑हि॒ यथा॑ कृत्या॒कृतं॒ हन॑त्
कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते ।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑
यदि॒ स्त्री यदि॑ वा॒ पुमा॑न् कृ॒त्यां च॒कार॑ पा॒प्मने॑ ।
तामु॒ तस्मै॑ नयाम॒स्यश्व॑मिवाश्वाभि॒धान्या॑
यदि॒ वासि॑ दे॒वकृ॑ता॒ यदि॑ वा॒ पुरु॑षैः कृ॒ता ।
तां त्वा॒ पुन॑र्णयाम॒सीन्द्रे॑ण स॒युजा॑ व॒यम्
अग्ने॑ पृतनाषा॒ट् पृत॑नाः सहस्व ।
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ प्रति॒हर॑णेन हरामसि
कृत॑व्यधनि॒ विध्य॒ तं यश्च॒कार॒ तमिज्ज॑हि ।
न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि
पु॒त्र इ॑व पि॒तरं॑ गच्छ स्व॒ज इ॑वा॒भिष्ठि॑तो दश ।
ब॒न्धमि॑वावक्रा॒मी ग॑च्छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑
उदे॒णीव॑ वार॒ण्यऽभि॒स्कन्दं॑ मृ॒गीव॑ ।
कृ॒त्या क॒र्तार॑मृच्छतु
इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑ ।
सा तं मृ॒गमि॑व गृह्णतु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑
अ॒ग्निरि॑वैतु प्रति॒कूल॑मनु॒कूल॑मिवोद॒कम् ।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑