Kaanda 5, Sukta 10, Verse 1
आत्मरक्षा
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
आत्मरक्षा
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मोदी॑च्या दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॒ दि॒शोऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त् ।
ए॒तत् स ऋ॑च्छात्
बृ॒ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम् ।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑