Kaanda 5, Sukta 8, Verse 1
शत्रुनाशनम् ।
वै॒क॒ङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह ।
अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॑ आ य॑न्तु मे॒ हव॑म्
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनाशनम् ।
वै॒क॒ङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह ।
अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॑ आ य॑न्तु मे॒ हव॑म्
इन्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु ।
इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे ।
तेभिः॑ शकेम वी॒र्यं१ जात॑वेद॒स्तनू॑वशिन्
यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति ।
मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॑ गु॒र्ममै॒व हव॒मेत॑न
अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत ।
अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत
यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये ।
इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑
यदि॑ प्रे॒युर्देव॑पु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे ।
त॒नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि
यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान् ।
त्वं तानि॑न्द्र वृत्रहन् प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहां॒ जन॑म्
यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम् ।
कृ॒ण्वे॒३ऽहमध॑रां॒स्तथा॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः
अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य ।
अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र मे॒द्य॑१हं तव॑ ।
अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑