Kaanda 5, Sukta 5, Verse 1
लाक्षा
रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः ।
सि॒ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
लाक्षा
रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः ।
सि॒ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑
यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम् ।
भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी
वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑ ।
जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि
यद् द॒ण्डेन॒ यदिष्वा॒ यद् वारु॒र्हर॑सा कृ॒तम् ।
तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम्
भ॒द्रात् प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात् ख॑दि॒राद्ध॒वात् ।
भ॒द्रान्न्य॒ग्रोधा॑त् प॒र्णात् सा न॒ एह्य॑रुन्धति
हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे ।
रु॒तं ग॑छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि
हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षने ।
अ॒पाम॑सि॒ स्वसा॒ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते
सि॒ला॒ची नाम॑ कानी॒नोऽज॑बभ्रु पि॒ता तव॑ ।
अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता
अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षां अ॒भि सि॑ष्यदे ।
स॒रा प॑त॒त्रिणी॑ भू॒त्वा सा न॒ एह्य॑रुन्धति