Kaanda 5, Sukta 3, Verse 1
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वंऽपुषेम ।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रस्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वंऽपुषेम ।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रस्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम
अग्ने॑ म॒न्युं प्र॑तिनु॒दन् परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑ ।
अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत्
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै
मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दै॒वाः होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वाऽसु॒वीराः॑
दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम् ।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो विदद् वृजि॒ना द्वेष्या॒ या
ति॒स्रो दे॑वी॒र्महि॑ नः॒ शर्म॑ यछत प्र॒जायै॑ नस्त॒न्वे॒३यच्च॑ पु॒ष्टम् ।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यछत्व॒स्मिन् हवे॑ पुरुहू॒तः पु॑रु॒क्षु ।
स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः ।
आ॒दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु यज॑मानं निरृ॒थात्
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान् ।
आ॒दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ न उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद् ध॑न॒जिद॑श्व॒जिद् यः ।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी