Kaanda 4, Sukta 39, Verse 1
संनति
पृ॒थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
संनति
पृ॒थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु
पृ॒थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः ।
सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् ।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑
अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु
अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ वा॒युर्व॒त्सः ।
सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् ।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑
दि॒व्याऽदि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ दि॒व्याऽदि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु
द्यैर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः ।
सा म॑ आदि॒त्येन॑ व॒त्सेने॑ष॒मूर्जं॒ कामं॑ दुहाम् ।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑
दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु
दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः ।
ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् ।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑ ।
न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम्
हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम्