Kaanda 4, Sukta 38, Verse 1
वाजिनीवान् ऋषभः ।
उ॒द्भि॒न्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म् ।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
वाजिनीवान् ऋषभः ।
उ॒द्भि॒न्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म् ।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे
वि॒चि॒न्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म् ।
ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त् ।
सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑ ।
सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म्
या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती ।
आ॒न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति ।
यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वाँन् लो॒कान् प॒र्यैति॒ रक्ष॑न् ।
स न॒ ऐतु॒ होम॑मि॒मं जु॑षा॒णो॒३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान्
अ॒न्तरि॑क्षेन स॒ह वा॑जिनीवन् क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन् ।
इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन् क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन् ।
अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः ।
य॒था॒ना॒म व॑ ईश्महे॒ स्वाहा॑