Kaanda 4, Sukta 37, Verse 1
कृमिनाशनम् ।
त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे ।
त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृमिनाशनम् ।
त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे ।
त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांस्चा॑तयामहे ।
अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय
न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम् ।
गु॒ल्गु॒लूः पीला॑ नल॒द्यौ॒३क्षग॑न्धिः प्रमन्द॒नी ।
तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन
यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑ ।
तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒ताः क॑र्क॒र्यः सं॒वद॑न्ति ।
तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्याऽवती ।
अ॒ज॒शृ॒ङ्ग्यऽराट॒की ती॑क्ष्णशृ॒ङ्गी व्यृऽषतु
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः ।
भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर॑य॒स्मयीः॑ ।
ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्यृऽषतु
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर्हि॑र॒ण्ययीः॑ ।
ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्युऽषतु
अ॒व॒का॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान् ।
पि॒शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च
स्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः ।
प्रियो दृश इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्त॑मि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्याऽवता
जा॒या इद् वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम् ।
अप धावतामर्त्या॒ मर्त्या॒न् मा स॑चध्वम्