Kaanda 4, Sukta 31, Verse 1
सेनानिरीक्षणम् ।
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो हर्ष॑माणा हृषि॒तासो॑ मरुत्वन् ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
सेनानिरीक्षणम् ।
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो हर्ष॑माणा हृषि॒तासो॑ मरुत्वन् ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू॑न् ।
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम्
एको॑ बहू॒नाम॑सि मन्य ईडि॒ता विशं॑विशं यु॒द्धाय॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्मसि
वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूत॒ उत्त॑रम् ।
क्रत्वा॑ नो मन्यो स॒ह मे॒द्येऽधि महाध॒नस्य पुरुहूत सं॒सृजि॑
संसृ॑ष्टं धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः ।
भियो॒ दधा॑ना॒ हॄदये॑षु॒ शत्र॑वः॒ परा॑जितासो अप॒ नि ल॑यन्ताम्