Kaanda 4, Sukta 28, Verse 1
पापमोचनम् ।
भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते ।
याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
पापमोचनम् ।
भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते ।
याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
ययो॑रभ्यभ्व॒ उ॒त यद् दू॒रे चि॒द् यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
स॒ह॒स्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेद॑स्रा॑ष्ट्रमभि॒भां जने॑षु ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
यः कृ॑त्या॒कृन्मू॑ल॒कृद् या॑तु॒धानो॒ नि तस्मि॑न् धत्तं॒ वज्र॑मु॒ग्रौ ।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी ।
स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो॑ जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः