Kaanda 4, Sukta 19, Verse 1
अपामार्गः ।
उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत् ।
उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा छि॑न्धि॒ वार्षि॑कम्
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपामार्गः ।
उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत् ।
उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा छि॑न्धि॒ वार्षि॑कम्
ब्रा॒ह्म॒णेन॒ पर्यु॑क्तासि॒ कण्वे॑न नार्ष॒देन॑ ।
सेने॑वैषि॒ त्विषी॑मती॒ न तत्र॑ भ॒यमस्ति॒ यत्र॑ प्रा॒प्नोष्यो॑षधे
अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न् ।
उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑
यद॒दो दे॒वा असु॑रां॒स्त्वयाग्रे॑ नि॒रकु॑र्वत ।
तत॒स्त्वमध्यो॑षधेऽपामा॒र्गो अ॑जायथाः
वि॒भि॒न्द॒ती श॒तशा॑खा विभि॒न्दन् नाम॑ ते पि॒ता ।
प्र॒त्यग् वि भि॑न्धि॒ त्वं तं यो अ॒स्माँ अ॑भि॒दास॑ति
अस॒द् भूम्याः॒ सम॑भव॒त् तद् यामे॑ति म॒हद् व्यचः॑ ।
तद् वै ततो॑ विधू॒पाय॑त् प्र॒त्यक् क॒र्तार॑मृच्छतु
प्र॒त्यङ् हि सं॑ब॒भूवि॑थ प्रती॒चीन॑फल॒स्त्वम् ।
सर्वा॒न् मच्छ॒पथाँ॒ अधि॒ वरी॑यो यावया व॒धम्
श॒तेन॑ मा॒ परि॑ पाहि स॒हस्रे॑णा॒भि र॑क्ष मा ।
इन्द्र॑स्ते वीरुधां पत उ॒ग्र ओ॒ज्मान॒मा द॑धत्