Kaanda 4, Sukta 11, Verse 1
अनड्वान्
अ॒न॒ड्वान् दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान् दा॑धारो॒र्व१न्तरि॑क्षम् ।
अ॒न॒ड्वान् दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान् विश्वं॒ भुव॑न॒मा वि॑वेश
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनड्वान्
अ॒न॒ड्वान् दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान् दा॑धारो॒र्व१न्तरि॑क्षम् ।
अ॒न॒ड्वान् दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान् विश्वं॒ भुव॑न॒मा वि॑वेश
अ॒न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः ।
भू॒तं भ॑वि॒ष्यद् भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑
इन्द्रो॑ जा॒तो म॑नु॒ष्येऽष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः ।
सु॒प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒यादन॒डुहो॑ विजा॒नन्
अ॒न॒ड्वान् दु॑हे सुकृ॒तस्य॑ लो॒क ऐनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त् ।
प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य
यस्य॒ नेशे॑ य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दा॒तेशे॒ न प्र॑तिग्रही॒ता ।
यो वि॑श्व॒जिद् वि॑श्व॒भृद् वि॒श्क॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात्
येन॑ दे॒वाः स्वरारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म् ।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑
इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट् ।
वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒दुह्य॑क्रमत ।
सोऽदृंहयत॒ सोऽधारयत
मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः ।
ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न् प्र॒त्यङ् स॒माहि॑तः
यो वेदा॑न॒डुहो॒ दोहा॑न्त्स॒प्तानु॑पदस्वतः ।
प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन् ।
श्रमे॑णान॒ड्वान् की॒लालं॑ की॒नाश॑श्चाभि ग॑च्छतः
द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः ।
तत्रोप॒ ब्रह्म॒ यो वेद॒ तद् वा अ॑न॒डुहो॑ व्र॒तम्
दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑ ।
दोहा॒ ये अ॑स्य सं॒यन्ति॒ ता॑न् वि॒द्मानु॑पदस्वतः