Atharva Veda
Kaanda 4, Sukta 7, Verse 1
विषनाषनम्
वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ ।
तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम्
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
विषनाषनम्
वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ ।
तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम्
अ॒र॒सं प्रा॒च्यंऽवि॒षम॑र॒सं यदु॑दी॒च्यऽम् ।
अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते
क॒र॒म्भं कृ॒त्वा ति॒र्यंऽपीबस्पा॒कमु॑दार॒थिम् ।
क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः
वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि ।
प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि
परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि ।
तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः
प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन् दू॒र्शेभि॑र॒जिनै॑रु॒त ।
प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे॑ ।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न् तद् व॑ ए॒तत्पु॒रो द॑धे