Kaanda 4, Sukta 4, Verse 1
वाजीकरण
यां त्वा॑ गन्ध॒र्वो अख॑न॒द् वरु॑णाय मृ॒तभ्र॑जे ।
तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम्
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
वाजीकरण
यां त्वा॑ गन्ध॒र्वो अख॑न॒द् वरु॑णाय मृ॒तभ्र॑जे ।
तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम्
उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑ ।
उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑
यथा॑ स्म ते वि॒रोह॑तो॒ऽभित॑प्तमि॒वान॑ति ।
तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः
उच्छुष्मौष॑धीनां॒ सार॑ ऋष॒भाणा॑म् ।
सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन्
अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम् ।
उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म्
अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति ।
अ॑द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑
आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि ।
क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑
अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च ।
अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन्