Kaanda 3, Sukta 28, Verse 1
पशुपोषणम् ।
एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः ।
यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून् क्षि॑णाति रिफ॒ती रुश॑ती
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
पशुपोषणम् ।
एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः ।
यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून् क्षि॑णाति रिफ॒ती रुश॑ती
ए॒षा प॒शून्त्सं क्षि॑णाति क्र॒व्याद् भू॒त्वा व्यद्व॑री ।
उ॒तैनां॑ ब्र॒ह्मणे॑ दद्या॒त् तथा॑ स्यो॒ना शि॒वा स्या॑त्
शि॒वा भ॑व॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यः शि॒वा ।
शि॒वास्मै सर्व॑स्मै॒ क्षेत्रा॑य शि॒वा न॑ इ॒हैधि॑
इ॒ह पुष्टि॑रि॒ह रस॑ इ॒ह स॒हस्र॑सातमा भव ।
प॒शून् य॑मिनि पोषय
यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ स्वायाः॑ ।
तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑
यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः ।
तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑