Kaanda 3, Sukta 20, Verse 1
रयिसंवर्धनम् ।
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम्
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
रयिसंवर्धनम् ।
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम्
अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ् नः॑ सु॒मना॑ भव ।
प्र णो॑ यच्छ विशां पते धन॒दा अ॑सि न॒स्त्वम्
प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ ।
प्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।
आ॒दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म्
त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय ।
त्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय
इ॒न्द्र॒वा॒यू उ॒भावि॒ह सु॒हवे॒ह ह॑वामहे ।
यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॒द् दान॑कामश्च नो॒ भुव॑त्
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म्
वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नान्य॒न्तः ।
उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ
दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम् ।
प्रापे॑यं सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च
गो॒सनिं॒ वाच॑मुदेयं॒ वर्च॑सा मा॒भ्युदि॑हि ।
आ रु॑न्धां स॒र्वतो॑ वा॒युस्त्वष्टा॒ पोषं॑ दधातु मे