Kaanda 3, Sukta 10, Verse 1
रायस्पोषप्राप्तिः ।
प्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे ।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
रायस्पोषप्राप्तिः ।
प्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे ।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्
यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली
सं॒व॒त्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे ।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा ।
म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री
वा॒न॒स्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम्
इडा॑यास्प॒दं घृ॒तव॑त् सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय ।
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां सप्ता॒नां मयि॒ रन्ति॑रस्तु
आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म ।
पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त ।
सर्वान् य॒ज्ञान्त्सं॑भुञ्ज॒तीषमूर्जं॑ न॒ आ भ॑र
आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑ ।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज
ऋ॒तून् य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान् ।
समाः॑ संवत्स॒रान् मासा॑न् भू॒तस्य॒ पत॑ये यजे
ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ ।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे
इड॑या॒ जुह्व॑तो व॒यं दे॒वान् घृ॒तव॑ता यजे ।
गृ॒हानलु॑भ्यतो व॒यं सं वि॑शे॒मोप॒ गोम॑तः
ए॒का॒ष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म् ।
तेन॑ दे॒वा व्यऽसहन्त॒ शत्रू॑न् ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑
इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः ।
कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः