Atharva Veda
Kaanda 2, Sukta 30, Verse 1
कामिनीमनोऽभिमुखीकरणम् ।
यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति ।
ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
कामिनीमनोऽभिमुखीकरणम् ।
यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति ।
ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑
सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः ।
सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता
यत् सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ ।
तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑
यदन्त॑रं॒ तद् बाह्यं॒ यद् बाह्यं॒ तदन्त॑रम् ।
क॒न्याऽनां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे
एयम॑ग॒न् पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम् ।
अश्वः॒ कनि॑क्रद॒द् यथा॒ भगे॑ना॒हं स॒हाग॑मम्