Atharva Veda
Kaanda 2, Sukta 27, Verse 1
शत्रुपराजयः ।
नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑न्वोषधे
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुपराजयः ।
नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑न्वोषधे
सु॒प॒र्णस्त्वान्व॑विन्दत् सूक॒रस्त्वा॑खनन्न॒सा ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे
इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे
पा॒टामिन्द्रो॒ व्याऽश्ना॒दसु॑रेभ्य॒ स्तरी॑तवे ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे
तया॒हं शत्रू॑न्त्साक्ष॒ इन्द्रः॑ सालावृ॒काँ इ॑व ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे
रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत् ।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे
तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति ।
अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि