Atharva Veda
Kaanda 2, Sukta 26, Verse 1
पशुसंवर्धनम् ।
एह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑ ।
त्वष्टा॒ येषां॑ रूप॒धेया॑नि वेदा॒स्मिन् तान् गो॒ष्ठे स॑वि॒ता नि य॑छतु
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
पशुसंवर्धनम् ।
एह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑ ।
त्वष्टा॒ येषां॑ रूप॒धेया॑नि वेदा॒स्मिन् तान् गो॒ष्ठे स॑वि॒ता नि य॑छतु
इ॒मं गो॒ष्ठं प॒शवः॒ सं स्र॑वन्तु॒ बृह॒स्पति॒रा न॑यतु प्रजा॒नन् ।
सि॒नी॒वा॒ली न॑य॒त्वाग्र॑मेषामाज॒ग्मुषो॑ अनुमते॒ नि य॑छ
सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः ।
सं धा॒न्यऽस्य॒ या स्फा॒तिः सं॑स्रा॒व्येऽण ह॒विषा॑ जुहोमि
सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रसम् ।
संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ
आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं॑१ रस॑म् ।
आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम्