Kaanda 2, Sukta 24, Verse 1
शत्रुनाशनम् ।
शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनाशनम् ।
शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
शेवृ॑धक॒ शेवृ॑ध॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः ।
यस्य॒ स्थ तम॑त्त॒ यो वः प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
म्रोकानु॑म्रोक॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
सर्पानु॑सर्प॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
जूर्णि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
उप॑ब्दे॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
अर्जु॑नि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः ।
यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त
भरू॑जि पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः ।