Atharva Veda
Kaanda 2, Sukta 15, Verse 1
अभय प्राप्तिः ।
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
अभय प्राप्तिः ।
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः
यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः ।
ए॒वा मे॑ प्राण॒ मा बि॑भेः